Nicotto Town



よきにはからえ その179

agosto 8 mercoledi ☀︎ 33/26℃

अजंता india
जगत्प्रसिद्धाः अजन्तागुहाः महाराष्ट्रस्य औरङ्गाबाद्नगरतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः बुद्धस्यपूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म । सर्वासु अपि कलाकृतिषु धार्मिकच्छाया परिद्दश्यते स्म् । भिक्षुभिः उपयुक्तानां वर्णादीनाम् उत्कृष्टताया: कारणतः शताधिकानां वर्षाणाम् अनन्तरम् अपि तत्रत्याः कलाकृतयः नावीन्ययुक्ताः इत्येव भान्ति । वर्णाः नशयमानाः सन्ति इति यदा लक्षितं तदा प्राचीनकलाकृतयः रक्षणीयाः एव इति महान् प्रयासः आचरितः । ब्रिटीश-आखेटकैः एताः गुहाः १८१९ तमे वर्षे अभिज्ञाताः । ईस्ट्-इण्डियाकम्पनीजनैः एतासां कलाकृतीनां प्रतिकृतिप्राप्तये प्रयासः कृते । अत्र ३० गुहाः सन्ति । तासु ५ गुहाः ‘चैत्यगृहणि’ इति निर्दिश्यन्ते । अवशिष्टाः ‘विहाराः’ ‘आश्रमाः’ इति वा निर्दिश्यन्ते । घनशिलाभ्यः एताः गुहाः उत्खाताः स्युः इति भाव्यते । प्रवेशद्वाराणि तु उत्कृष्टाभिः कलाकृतिभः विशेषतः अलङ्कृतानि द्दश्यन्ते । ‘एताः अजन्तागुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रयभूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विवरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।





Copyright © 2024 SMILE-LAB Co., Ltd. All Rights Reserved.